________________ (3) किरातार्जुनीयम् :: षष्ठः सर्गः ] [ 261 5 उपलब्धुमस्य नियमस्थिरता सुरसुन्दरीरिति वचोऽभिदधे // 36 / / सुकुमारमेकमणु मर्मभिदा मतिदूरगं युतममोघतया / अविपक्षमस्त्रमपरं कतम द्विजयाय यूयमिव चित्तभुवः // 40 // भववीतये हतबृहत्तमसा मवबोधवारि रजसः शमनम् / परिपीयमाणमिव वोऽसकलै रवसादमेति नयनाञ्जलिभिः // 41 / / बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा / उपपादिता विदधता भवतीः. ___ सुरसद्मयानसुमुखी जनता // 42 / / तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः / हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः // 43 // अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् / भववीतये न हि तथा स विधि: . क्व शरासनं क्व च विमुक्तिपथः / / 44 / / पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः / स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः // 45 // 25 /