________________ 260 ] [ काव्यषट्कं मरुतः शिवा नवतृणा जगती .. विमलं नभो रजसि वृष्टिरपाम् / गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिमिव भूतगण: / / 33 / / इतरेतरानभिभवेन मृगा __स्तमुपासते गुरुमिवान्तसदः / विनमन्ति चास्य तरवः प्रचये परवान्स तेन ,भवतेव नगः / / 34 / / उरु सत्त्वमाह विपरिश्रमता परमं वपुः प्रथयतीव जयम् / शमिनोऽपि तस्य नवसङ्गमने विभुतानुषङ्गि भयमेति जनः / / 35 / / ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् / चरतस्तपस्तव वनेषु सहा न वयं निरूपयितुमस्य गतिम् // 36 / / विगणय्य कारणमनेकगुणं निजयाऽथवा कथितमल्पतया / असदप्यदः सहितुमर्हसि नः क्व वनेचराः क्व निपुणा यतयः / / 37 / / अधिगम्य गुह्यकगणादिति त __ न्मनसः प्रियं प्रियसुतस्य तपः / निजुगोप हर्षमुदितं मघवा ____नयवर्त्मगाः प्रभवतां हि धियः // 38 / / प्रणिधाय चित्तमथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः / 25