________________ 292 ] [ काव्यषटकं आशंसितापचितिचारु पुरः सुरा णामादेश मित्यभिमुखं समवाप्य भतु: / लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्याधिकृतस्य तनोति तेजः / 46 / प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः __स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः / अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तु द्रष्टुमक्षणां सहस्रम् / / 47 / / / / इति भारविकृतौ महाकाव्ये किरातार्जुनीये षष्ठः सर्गः // 6 // ... // 7 // सप्तमः सर्गः॥ श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तनामथ सचिवैस्त्रिलोक तुः / संमूर्च्छन्नलघुविमानरन्ध्रभिन्नः, प्रस्थानं समभिदधे मृदङ्गनाद: / / 1 / / सोत्कण्ठैरमरगणैरनुप्रकी निर्याय ज्वलितरुचः पुरान्मघोनः / रामाणामुपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वमातपत्रः / / 2 / / धूतानामभिमुखपातिभिः समीरै रायासादविशदलोचनोत्पलानाम् / . आनिन्ये मदजनितां श्रियं वधूना ...मुष्णांशुद्युतिजनितः कपोलरागः / / 3 / / तिष्ठद्भिः कथमपि देवतानुभावा- . . दाकृष्टः प्रजविभिरायतं तुरङ्गैः /