________________ 260 ] [ काव्यषट्कं ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः / अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम-मानिनः / / 20 / / किमपेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः / प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नति यया / / 21 / / कुरु तन्मतिमेव विक्रमे नृप ! निधू य तमः प्रमादजम् / ध्रुवमेतदवेहि विद्विषां त्वदनुत्साहहता विपत्तय: / / 22 / / द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः / प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः / / 23 / / ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि / विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः / / 24 / / इति शितविक्रियं सुतं मरुतः कोपपरीतमानसम् / उपसान्त्वयितुं महीपतिद्विरदं दुष्टमिवोपचक्रमे / / 25 / / अपवजितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे / विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते / / 26 / / स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् / रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् / / 27 / / उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः / इदमीहगनीहगाशयः प्रसभं वक्तुमुपक्रमेत कः / / 28 / / अवितृप्ततया तथाऽपि मे हृदयं निर्णयमेव धावति / अवसाययितुक्षमाः सुखं न विधेयेषु विशेषसम्पदः / / 26 / / सहसा विदधीत न क्रियामविवेकः परमापदां पदम् / वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः / / 30 / / अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा / स सदा फलशालिनी क्रियां शरदं लोक इवाधितिष्ठति / / 31 / / 25 शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया। प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः // 32 //