________________ (3) किरातार्जुनीयम् :: द्वितीयः सर्गः ] [ 256 विधुरं किमतः परं परैरवगीतां गमिते दशामिमाम् / अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् / / 7 / / द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः / न महानपि भूतिमिच्छता फलसम्पत्प्रवणः परिक्षयः / / 8 / / 5 अचिरेण परस्य भूयसी विपरीतां विगणय्य चात्मनः / क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा // 6 // अनुपालयतामुदेष्यती प्रभुशक्ति द्विषतामनीहया। अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः / / 10 / / क्षययुक्तमपि स्वभावजं दधतं धाम शिवं समृद्धये / प्रणमन्त्यनपायमुत्थितं प्रतिपञ्चन्द्रमिव प्रजा नपम् / / 11 / / प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः / स विधेयपदेषु दक्षतां नियति लोक इवानुरुध्यते // 12 / / अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः / विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् // 13 // 15 विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः / / नियता लघुता निरायतेरगरीयान्न पदं नपश्रियः // 14 / / तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् / निवसन्ति पराक्रमाश्रया न विषादेन संमं समद्धयः // 15 // अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृत्तिना। धृतराष्ट्रसृतेन सुत्यजाश्चि रमास्वाद्य नरेन्द्रसम्पदः // 16 // द्विषतां विहितं त्वयाऽथवा यदि लब्धा पुनरात्मनः पदम् / जननाथ ! तवानुजन्मनां कृतमाविष्कृतपौरुषैर्भुजैः / / 17 / / मदसिक्तमुखैमृगाधिपः करिभिर्वर्त्तयते स्वयं हतैः / लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः // 18 // 25 अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः। अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलमानुषङ्गिकम् // 16 //