SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ .254 ] [ काव्यषट्कं महौजसो मानधना धनाचिंता धनुर्भूतः संयति लब्धकीर्तयः / नसंहतास्तस्य नभिन्नवृत्तयः _ प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् / / 16 / / महीभृतां सच्चरितैश्चरै क्रिया: स वेद निश्शेषमशेषितक्रियः / महोदयैस्तस्य हितानुबन्धिभिः __ प्रतीयते धातुरिवेहितं फलैः / / 20 / / न तेन सज्यं क्वचिदुद्यतं धनुः - कृतं न वा कोपविजिह्ममाननम् / गुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम् / / 21 / / स यौवराज्ये नवयौवनोद्धतं' निधाय दुःशासनमिद्धशासनः / मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् / / 22 // प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः / स चिन्तयत्येव भियस्त्वदेष्यती रहो दुरन्ता बलवद्विरोधिता / / 23 / / कथाप्रसङ्गेन जनैरुदाहृता ___दनुस्मृताखण्डलसूनुविक्रमः / तवाभिधानाद् व्यथते नताननः ___स दुःसहान्मन्त्रपदादिवोरगः / / 24 / / तदाशु कतु त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् / 25
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy