________________ (3) किरातार्जुनीयम् :: प्रथमः सर्गः ] [ 255 परप्रणीतानिवचांसि चिन्वतां ___ प्रवृत्तिसाराः खलु मादृशां गिरः / / 25 / / इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् / प्रविश्य कृष्णासदनं महीभुजा तदाचचक्षेऽनुजसंनिधौ वचः // 26 / / निशम्य सिद्धि द्विषतामपाकृती स्ततस्ततस्त्या विनियन्तुमक्षमा / नृपस्य मन्युव्यवसायदोपिनी रुदाजहार द्रुपदात्मजा गिरः / / 27 // भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् / तथाऽपि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः // 28 / / अखण्डमाखण्डलतुल्यधामभि श्चिरं धृता भूपतिभिः स्ववंशजैः / त्वयाऽऽत्महस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता // 26 / / व्रजन्ति ते मूढधियः पराभवं . भवन्ति मायाविषु ये न मायिनः / प्रविश्य हि घ्नन्ति शठास्तथाविधा नसंवृताङ्गान्निशिता इवेषवः // 30 // गुणानुरक्तामनुरक्तसाधनः ___ कुलाभिमानी कुलजां नराधिपः / 25 / परैस्त्वदन्यः क इवापहारये न्मनोरमामात्मवधूमिव श्रियम् / / 31 / /