________________ (2) कुमारसंभवं :: सप्तदशः सर्गः ] [ 246 व्योम्न्युच्चकैरचिररुक्परिदीपितांशा दृष्टिच्छदा विषमघोषविभीषणा च / / 43 / / व्योम्नस्तलं पिदधतां ककुभां मुखानि गर्जारवैरविरतैस्तुदतां मनांसि / अम्भोभृतामतितरामनणीयसीभि र्धारावलीभिरभितो ववृषे समूहैः / / 44 / / धोरान्धकारपटलैः पिहिताम्बराणां - गम्भीरगर्जनरवैर्व्यथितासुराणाम् / वृष्ट्या तया जलमुचां वरुणास्त्रजानां विश्वोदरंभरिरपि प्रशशाम वह्निः // 45 // दैत्योऽपि रोषकलुषो निशितैः क्षरप्रै __राकर्णकृष्टधनुरुत्पतितैः सः भीमैः / तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो / गाढं जघान मकरध्वजशत्रुसूनुम् / / 46 / / देवोऽपि दैत्यविशिखप्रकरं सचापं __बाणैश्चकर्त कणशो रणकेलिकारी / योगीव योगविधिशुष्कमना यमाद्यैः सांसारिकं विषयसंघममोघवीर्यम् / / 47 / / भ्रूभङ्गभीषणमुखोऽसुरचक्रवर्ती संदीप्तकोपदहनोऽथ रथं विहाय / क्रीडत्करालकरवालकरोऽसुरेन्द्र स्तं प्रत्यधावदभितस्त्रिपुरारिसूनुम् / / 48 // अभ्यापतन्तमसुराधिपमीशपुत्रो दुर्वारबाहुविभवं सुरसैनिकैस्तम् / दृष्ट्वा युगान्तदहनप्रतिमां मुमोच शक्ति प्रमोदविकसद्वदनारविन्दः / / 25 / उद्दयोतिताम्बरदिगन्तरमंशुजालैः . शक्तिः पपात हृदि तस्य महासुरस्य /