________________ 250 ] [ काव्यषट्क हर्षाश्रुभिः सह समस्तदिगीश्वराणां शोकोष्णबाष्पसलिलैः सह दानवानाम् / / 5 / / शक्तया हृतासुमसुरेश्वरमापतन्तं कल्पान्तवातहतभिन्नमिवाद्रिशृङ्गम् / दृष्ट्वा प्ररूढपुलकाञ्चितचारुदेहा देवाः प्रमोदमगमंस्त्रिदशेन्द्रमुख्याः // 51 / / यत्रापतत्स दनुजाधिपतिः परासुः / / संवर्तकालनिपतन्छिखरीन्द्रतुल्यः / तत्रादधात्फणिपतिर्धरणी फरणाभि स्तद्भरिभारविधुराभिरघो व्रजन्तीम् / / 52 / / स्वर्गापगासलिलसीकरिणीं समन्ता सौरभ्यलुब्धमधुपावलिसेव्यमाना / कल्पद्रुमप्रसववृष्टिरभून्नभस्तः - शंभोः सुतस्य शिरसि त्रिदशारिशत्रोः / / 53 / / 15 पुलकभरविभिन्नवारबाणा भुजविभवं बहु तारकस्य शत्रोः / सकलसुरगणा महेन्द्रमुख्याः प्रमदमुखच्छविसंपदोऽभ्यनन्दन् / 54 / (पुष्पिताग्रा) इति विषमशरारेः सूनुना जिष्णुनाजी त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे / 20 बलरिपुरथ नाकस्याधिपत्यं प्रपद्य व्यजयत सुरचूडारत्नघृष्टाग्रपाद: / / 55 / / (मालिनी) // इति श्रीकालीदासकृतौ कुमारसंभवे महाकाव्ये तारकासुरवधो नाम सप्तदशः सर्गः // 17 / / 25 // समाप्तमिदं कुमारसंभवकाव्यम् // 2 //