________________ 248 ] [ काव्यषटकं जज्वाल वह्निरतुलः सुरसैनिकेषु कल्पान्तकालदहनप्रतिमः समन्तात् / आशामुखानि विमलान्य खिलानि कीला __ जालैरलं कपिलयन्सकलं नभोऽपि / / 37 / / उज्जागरस्य दहनस्य निरर्गलस्य ___ ज्वालावलीभिरतुलाभिरनारताभिः / कीर्णं पयोदनिवहैरिव धूमसंधै योमाभ्यलक्ष्यत कुलस्तडितामिवोच्चैः / 38 / गाढाद्भयाद्वियति विद्रुतखेचरेण ___दीप्तेन तेन दहनेन सुदुःसहेन / दन्दह्यमानमखिलं सुरराजसैन्य . मत्याकुलं शिवसुतस्य समीपमाप / / 36 / / इत्यग्निना घनतरेण ततोऽभिभूतं ___ तद्देवसैन्यमखिलं विकलं विलोक्य / सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु ोणासनेन समधत्त स वारुणास्त्रम् / / 40 / / घोरान्धकारनिकरप्रतिमो युगान्त ____ कालानलप्रबलधुमनिभो नभोन्ते / गर्जारवैविघटयन्नवनीधराणां शृङ्गाणि मेघनिवहो घनमुज्जगाम / / 41 / / विद्युल्लता वियति वारिदवृन्दमध्ये गम्भीरभीषणरवैः कपिशीकृताशा / घोरा युगान्तचलितस्य भयंकराथ कालस्य लोलरसनेव चमच्चकार / / 42 / / कादम्बिनी विरुरुचे विषकण्ठिकाभि, रुत्तालकालरजनीजलदावलीभिः / 25