________________ 244 ] . [ काव्यषटकं दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र कल्पं दलद्वलविरावविशेषरौद्रम् / अभ्यागतं सुररिपोः सुरराजसैन्यं क्षोभं जगाम परमं भयवेपमानम् / / 11 / / प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं शंभोः सुतं कलहकेलिकुतूहलोत्कम् / उद्दामदोःकलित कामुकदण्डचण्डः प्रोवाच वाचमुपगम्य स कार्तिकेयम् / / 12 / / रे शंभूतापसशिशो बत मुञ्च मुञ्च दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात् / / शस्त्रैः किमत्र भवतोऽनुचितैरतीव बालत्वकोमलभुजातुलभारभूतैः / / 13 / / एवं त्वमेव तनयोऽसि गिरीशंगौर्योः कि यासि कालविषयं विषमैः शरैम / सङ्ग्रामतोऽपसर जीव पितुर्जनन्या स्तूर्णं प्रविश्य वरमङ्कतलं विधेहि / / 14 / / सम्यक्स्वयं किल विमृश्य गिरीशपुत्र जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु / एष स्वयं पयसि मज्जति दुर्विगा। पाषाणनौरिव निमज्जयते पुरा त्वाम् / / 15 / / इत्थं निशम्य वचनं युधि तारकस्य कम्प्राधरो विकचकोकनदारुणास्यः / क्षोभात्रिलोचनसुतो धनुरीक्षमाणः प्रोवाच वाचमुचितां परिमृश्य शक्तिम् / / 16 / / दैत्याधिराज भवता यदवादि गर्वा तत्सर्वमप्युचितमेव तवैव किं तु / 25