________________ (2) कुमारसंभव :: सप्तदशः सर्गः ] [ 243 आच्छादितस्तृणचयानिव हव्यवाह श्चिच्छेद सोऽपि सुरसैन्यशराञ्झरौघैः // 4 // दैत्येश्वरो ज्वलितरोषविशेषभीमः सद्यो मुमोच युधि यान्विशिखान्सहेलः / ते प्रापुरुद्भटभुजंगमभीमभावं गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान् / / 5 / / ते नागपाशविशिखैरसुरेण बद्धाः ... श्वासानिलाकुलमुखा विमुखा रणस्य / दिङ्नायका बलरिपुप्रमुखाः स्मरारि सूनोः समीपमगमन्विपदन्तहेतोः / / 6 // दृष्टिप्रपात वशतोऽपि पुरारिसूनो स्ते नागपाशघनबन्धविपत्तिदुःखात् / इन्द्रादयो मुमुचिरे स्वयमस्य देवाः सेवां व्यधुनिकटमेत्य महाजिगीषोः / / 7 / / उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु __ रह्नाय सारथिमवोचत चण्डबाहुः / बद्धा मया सुरपतिप्रमुखाः प्रसह्य बालस्य धूर्जटिसुतस्य निरीक्षणेन / / 8 / / मुक्ता बभूवुरघुना तदिमान्विहाय कर्तास्म्यमु समरभूमिपशूपहारम् / तत्स्यन्दनं सपदि वाहय शंभुसूनु द्रष्टास्मि पितभुजाबलमाहवाय / / 6 / / तत्स्यन्दनः सपदि सारथिसंप्रणुन्नः प्रक्षुब्धवारिधरधीरगभीरघोषः / 25 .. चण्डश्चचाल दलिताखिलशत्रुसैन्य .. मांसास्थिशोणितविपकविलुप्तचक्रः / / 10 / / 15 . 20