________________ (2) कुमारसंभवं :: सप्तदशः सर्गः ] [ 245 द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं ___ शस्त्रं गृहाण कुरु कामु कमाततज्यम् / / 17 / / इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं दैत्यः ऋधौष्ठमधरं किल निविभिद्य / युद्धार्थमुद्भटभुजाबलदर्पितोऽसि बाणान्सहस्व मम सादितशत्रुपृष्ठान् / / 18 / / दुःप्रेक्षणीयमरिभिर्धनुराततज्यं सद्यो विधाय विषमान्विशिखान्यधत्त / स क्रोधभीमभुजगेन्द्रनिभं स्वचापं चण्डं प्रपञ्चयति जैत्रशरैः कुमारे / / 16 / / कर्णान्तमेत्य दितिजेन विकृष्यमाणं ___ कोदण्डमेतदभितः सुषुवे शरौघान् / व्योमाङ्गणे लिपिकरान्किरणप्ररोहैः सान्द्रैरशेषककुभां पलितंकरिष्णून् / / 20 / / बाणैः सुरारिधनुषः प्रसृतैरनन्यै निर्घोषभीषितभटो लसदंशुजालैः / अन्धीकृताखिलसुरेश्वरसैन्य ईश सूनुः कुतोऽपि विषयं न जगाम दृष्टेः / / 21 / / देवेन मन्मथरिपोस्तनयेन गाढ. माकर्णकृष्टमभितो धनुराततज्यम् / बाणानसूत निशितान्युधि यान्सुजैत्रा स्तैः सायका बिभिदिरे सहसा सुरारेः / / 22 / / रेजे सुरारिशरदुदिनके निरस्ते - सद्यस्तरां निखिलखेचरखेदहेतौ / देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः प्रद्योतन: सुघनदुर्धरधामधामा / / 23 / / 25