________________ (2) कुमारसंभव :: पञ्चदशः सर्गः ] [ 231 धरारजोग्रस्तदिगन्तभास्कराः पति प्रयान्तं पृतनास्तमन्वयुः / / 6 / / चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्रसर्पिणः / दन्तप्रकाण्डेषु सितेषु शुभ्रतां ___ कुम्भेषु दानाम्बुधनेषु पङ्कताम् / / 10 / / महीभृतां कन्दरदारणोल्बणै स्तद्वाहिनीनां पटहस्वनैर्घनैः / उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्रवन्ती सहसाभ्यवर्धत / / 11 / / सुरारिनाथस्य महाचमूस्वन विगाह्यमाना तुमुलैः सुरापगा। अभ्युच्छितैरूमिशतैश्च वारिजै रक्षालयन्नाकनिकेतनावलीम् / / 12 / / अथ प्रयाणाभिमुखस्य नाकिनां द्विषः पुरस्तादशुभोपदेशिनी / अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव / / 13 / / आगामिदैत्याशनकेलिकाक्षिणी कुपक्षिणां घोरतरा परम्परा / दधौ पदं व्योम्नि सुरारिवाहिनी... रुपयु पर्येत्यनिवारितातपा // 14 // मुहुविभग्नातपवारणध्वज श्चलद्धराधूलिकलाकुलेक्षणः ... धूताश्वमातङ्गमहारथाकरा नवेक्षणोऽभूत्प्रसभं प्रभञ्जनः / / 15 / /