________________ 232 ] . [ काव्यषटक सद्यो विभिन्नाञ्जमपुञ्जतेजसो. मुखैविषाग्नि विकिरन्त उच्चकैः / पुरः पथोऽतीत्य महाभुजंगमा भयंकराकारभृतो भृशं ययुः / / 16 / / मिलन्महाभीमभुजगभीषणं प्रभुदिनानां परिवेषमादधौ। महासुरस्य द्विषतोऽतिमत्सरा दिवान्तमासूचयितु भयंकरः / / 17 / / त्विषामधीशस्य पुरोऽधिमण्डलं ___ शिवाः समेताः परुषं ववाशिरे / सुरारिराजस्य रणान्तशोणितं प्रसह्य पातु द्रुतमुत्सुका इव / / 18 / / दिवापि तारस्तरलास्तरस्विनी: - परापतन्तीः परितोऽथ वाहिनीः / विलोक्य लोको मनसा व्यचिन्तय- . प्राणव्ययान्तं व्यसनं सुरद्विषः / / 16 / / ज्वलद्भिरुच्चैरभितः प्रभाभरै ___ रुद्भासिताशेषदिगन्त राम्बरम् / रवेण रौद्रेण हृदन्तदारणं , पपात वज्र नभसो निरम्बुदात् / / 20 / / ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः / / धूमं ज्वलन्तो व्यसृजन्मुखै रजो दधुर्दिशोरासभकण्ठधूसरम् / / 21 / / निर्घात घोषो गिरिशृङ्गशातनो घनोऽम्बराशाकुहरोदरंभरिः / 25