________________ 218 ] [ काव्यषट्कं गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते / उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोकमथात्मनीनम् / / 6 / / ते स्वर्गलोकं चिरकालदृष्टं महासुरवासवशंवदत्वात् / सद्यः प्रवेष्टुं न विषेहिरे तत्क्षणं व्यलम्बन्त सुराः समग्राः / 10 / 5 पुरो भव त्वं न पुरो भवामि नाहं पुरोगोऽस्मि पुरःसरस्त्वम् / इत्थं सुरास्तत्क्षणमेव भीताः स्वर्ग प्रवेष्टुं कलहं वितेनुः / 11 / सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते / दधुः कुमारस्य मुखारविन्दे दृष्टि द्विषत्साध्वसकातरान्ताम् 12 सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः / स तारकापातमपेक्षमाणो रणप्रवीरो हि सुरानवोचत् // 13 // भीत्यालमद्य त्रिदिवैकसोऽमी स्वर्ग भवन्तः प्रविशन्तु सद्यः / अत्रैव मे हक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः / / 14 / / स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्म चण्डम् / इहैव तच्छोरिणतपानकेलिमह्नाय कुर्वन्तु शरा ममैते / / 15 / / शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा / स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशतान्मुदं वः 16 इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य / सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसा ननन्द // 17 // सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसंफुल्लसहस्रनेत्रः / तस्योत्तरीयेण निजाम्बरेण निरुञ्छनं चारु चकार शक्रः / 18 / घनप्रमोदाश्रुतरंगितामु खैश्चतुभिः प्रचुरप्रसादैः / अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु शिरःसु चित्रम् 19 तं साधु साध्वित्यभितः प्रशस्य. मुदा कुमारं त्रिपुरासुरारेः / आनन्दयन्वीर जयेति वाचा गन्धर्वविद्याधरसिद्धसंघाः / 20 / 25 दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः / निरुञ्छन चक्रुरथोत्तरीयैश्चामीकरीयैनिजवल्कलैश्च / / 21 / / 20