________________ (2) कुमारसंभवं :: त्रयोदशः सर्गः ] [ 217 जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति / 60 / (हरिणी) // इति कवि-श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः // 12 // 5 // 13 // त्रयोदशः सर्गः॥ प्रस्थानकालोचितचारुवेषः स स्वर्गिवगैरनुगम्यमानः / ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तु : प्रणनाम पादौ / 1 / जहीन्द्रशत्रु समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स / 10 इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् / 2 / प्रह्वीभवनम्रतरेण मूर्ना नमश्चकाराङ्घ्रियुगं स्वमातुः / तस्याः प्रमोदाश्रुपयःप्रवृष्टिस्तस्याभवद्वीरवराभिषेकः // 3 // तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा / शिरस्युपाघ्राय जगाद शत्रु जित्वा कृतार्थीकुरु वीरसूमाम् / 4 / 15 उद्दामदैत्येशविपत्तिहेतुः श्रद्धालुचेताः . समरोत्सवस्य / आपृच्छय भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः / देवं महेशं गिरिजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि / प्रदक्षिणीकृत्य च नाकनाथ पूर्वाः समस्तास्तमथानुजग्मुः // 6 // अथ व्रजद्भिस्त्रिदशैरशेषः स्फुरत्प्रभाभासुरमण्डलस्तैः / नभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः // 7 // रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः / नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते / / 8 / /