________________ 216 ] [ काव्यषट्कं 5 अहो ततोऽनन्तरमद्ययावत्सुदुःसहां तस्य पराभवातिम् / विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसौऽमी // 48 / / निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् / सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् / 46 / त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् / अस्माकमेषां पुरतोभवन्सन्दुःखापहारं युधि यो विधत्ते // 50 // महाहवे नाथ तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् / महासुराणां रमणीविलापैदिशो दशैता मुखरीभवन्तु / / 5 / / महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन / बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः / 52 / इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः / कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे / / 53 / / अहो अहो देवगणाः सुरेन्द्र मुख्याः शरणुध्वं वचनं ममैते / विचेष्टते शंकर एष देवः कार्याय सज्जो भवतां सुताद्यैः / 54 / 15 पुरा मयाकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि / तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत एव शत्रुः / / 55 / / अत्रोपपन्नं तदमी नियुज्य कुमारमेनं पृतनापतित्वे / निघ्नन्तु शत्रु सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः / 56 / इत्युदीर्य भगवांस्तमात्मजं घोरसंगरमहोत्सवोत्सुकम् / नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शंकरः / / 57 / / शासनं पशुपतेः स कुमारः स्वीचकार शिरसावनतेन / सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः / / 58 / / असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तमात्मजम् / गिरिजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः / 25 सुरपरिवृढः प्रौढ़ वीरं कुमारमुमापते बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् /