________________ (2) कुमारसंभवं :: एकादशः सर्गः ] [206 प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि / परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् / 18 / सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्वाष्पतरंगितायाः / विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम // 19 // 5 तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् / सा नन्दनालोकनमङ्गलेषु क्षणक्षणं तृप्यति कस्य चेतः / / 20 / / विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पारिणसरोरुहाभ्याम् / नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय / / 21 / / स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा। 10 तमेकमेषा जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् // 22 // निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा / तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्रविणी बभूव // 23 / / अशेषलोकत्रयमातुरस्याः पाण्मातुरः स्तन्यसुधामधासीत् / सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः / 24 / 15 सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुग्वाम्बुजेन / तस्यैकनालोद्गतपञ्चपद्मलक्ष्मी क्रमात्षवदनीं चुचुम्ब / 25 / हैमी फलं हेमगिरेलतेव विकस्वरं नाकनदीव पद्मम् / पूर्वेव दिनूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना // 26 / / प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण / 20 कुमारमुत्सङ्गतले दधाना विमानमभ्रंलिहमारुरोह / / 27 // महेश्वरोऽपि प्रमदप्ररूढ रोमोद्गमो भूधरनन्दनायाः / अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् / / 28 // 25 दधानया नेत्रसधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः /