________________ 208 ] [ काव्यषट्कं प्रथाह देवी शशिखण्डमौलि कोऽयं शिशुदिव्यवपुः पुरस्तात् / कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या / / स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः / पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति / / 7 / / एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् / . अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु / / 8 / / श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः / सान्द्रप्रमोदोदयसौख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः / / 9 / / जगत्त्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति / 10 कल्याणि कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः / / देवी त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः / सत्यं त्वमेवेति विचारयस्व रत्नाकरे यूज्यत एव रत्नम् / 11 / अतः शृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहित मया तत् / संक्रान्तमन्तस्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु / 12 / 15 गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि / बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य / / 13 / / अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् / अलं विलम्ब्याचल राजपुत्रि स्वपुत्रमुत्सङ्गतले निधेहि / / 14 / / अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः / सान्द्रप्रमोदेन सुपोनगात्री धात्री समस्तस्य चराचरस्य / / 15 / / किरीटबद्धाञ्जलि भिर्नभःस्थैर्नमस्कृता सत्वरनाकिलोकैः / विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाभूत् / 16 / स्वर्गापगापावककृतिकादी न्कृताञ्जलीनानमतोऽपि भूयः / ____ हित्वोत्सुका तं सुतमासासद . पुत्रोत्सवे माद्यति का न हर्षात् / / 17 / /