________________ 200 ] ... [ काव्यषट्कं भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य / नेपथ्यलक्ष्म्याः परिभावनार्थमदर्शयज्जीवितवल्लभां सः / 28 / प्रियेण दत्ते मणिदर्पणे सा संभोगचिह्न स्ववपुर्विभाव्य / त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार / / 26 / / नेपथ्यलक्ष्मी दयितोपक्लप्तां सस्मेरमादर्शतले विलोक्य / . अमस्त सौभाग्यवतीषु धुर्यामात्मानमुद्धतविलक्षभावा / / 30 / / अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च / सुसंपदोपाचरतां कलानामङ्के 10 स्थितां तां शशिखण्डमौले: / / 31 / / व्यधुर्बहिर्मङ्गलगानमुच्चैर्वैतालिकाश्चित्रचरित्रचारु / जगुश्च गन्धर्वगणाः सशङ्खस्वनं प्रमोदाय पिनाकपाणेः / 32 / ततः स्वसेवावसरे सुराणां ___ गणांस्तदालोकनतत्पराणाम् / 15 द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् // 33 / / महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः / संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम / / 34 / / क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम् / 20 प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते / / 35 / / यथागतं तान्विबुधान्विसृज्य प्रसाद्य मानक्रियया प्रतस्थे / स नन्दिना दत्तभुजोऽधिरुह्य वृषं वृषाङ्कः सह शैलपुत्र्या / 36 / मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो गगनाध्वनोऽन्तः / वैमानिकः साञ्जलिभिर्ववन्दे विहारहेलागतिभिगिरीशः // 37 // 25 स्वर्वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी। तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरिजागिरीशौ।।३८॥