________________ (2) कुमारसंभवं :: नवमः सर्गः ] [ 166 स पावकालोकरुषा विलक्षां ___स्मरत्रपास्मेरविनम्रवक्ताम् / विनोदयामास गिरीन्द्रपुत्रीं शृङ्गारग:मधुरैर्वचोभिः // 18 // 5 हरो विकीर्णं घनघतोयैर्नेत्राञ्चनाङ्क हृदयप्रियायाः / द्वितीयकौपीनचलाञ्चलेनाहरन्मुखेन्दोरकलङ्किनोऽस्या: / 16 / मन्देन खिन्नाङ्गुलिना करेण कम्प्रेण तस्या वदनारविन्दात् / परामृशन्धर्मजलं जहार हरः सहेलं व्यजनानिलेन // 20 // रतिश्लथं तत्कबरीकलापमंसावसक्त विगलत्प्रसूनम् / 10 स पारिजातोद्भवपुष्पमय्या स्रजा बबन्धामृतमूर्तिमौलिः / 21 / कपोलपाल्यां मृगनाभिचित्रपत्रावलीमिन्दुमुखः सुमुख्याः / स्मरस्य सिद्धस्य जगद्विमोहमन्त्राक्षरश्रेणिमिवोल्लिलेख / 22 / रथस्य कर्णावभि तन्मुखस्य ताटङ्कचऋद्वितयं न्यधात्सः / जगज्जिगीषुर्विषमेषुरेष ध्रुवं यमारोहति पुष्पचापः // 23 // 15 तस्याः स कण्ठे पिहितस्तनाग्रां. न्यधत्त मुक्ताफलहारवल्लीम् / या प्राप मेरुद्वितयस्य मून्धि .. स्थितस्य गागौघयुगस्य लक्ष्मीम् // 24 // नखवणश्रेणिवरे बबन्ध नितम्बबिम्बे रशनाकलापम् / 20 चलस्वचेतोमृगवन्धनाय मनोभुवः पाशमिव स्मरारिः // 25 // ___ भालेक्षणाग्नौ स्वयमञ्जनं स भङ्क्त्वा दृशोः साधु निवेश्य तस्याः / नवोत्पलाक्ष्याः पुलकोपगूढे कण्ठे विनीलेऽङ्गुलिमुज्जघर्ष / / 26 / / 25 अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य / स्वमौलिगङ्गासलिजेन हस्तारणत्वमक्षालयदिन्दुचूडः / / 27 / /