________________ (2) कुमारसंभवं :: नवमः सर्गः ] [ 195 चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिगिरिः / मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः / / 67 // कल्पवृक्षशिखरेषु प्रति संप्रस्फुरद्भिरिव पश्य सुम्दरि / हारयष्टिरचनामिवांशुभिः कर्तु मागतकुतूहलः शशी // 68 / / 5 उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् / भक्तिभिर्बहुविधाभिरपिता भाति भूतिरिव मत्तहस्तिनः / 66 / एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् / मुक्तषट्पदविरावमजसा भिद्यते कुमुदमा निवन्धनात् / 70 / पश्य कल्पतरुल म्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् / मारुते चलति चण्डिके बलाद्व्यज्यते विपरिवृत्तमंशुकम् / 71 / शक्यमङ्गुलिभिरुत्थितैरथः शाखिनां पतितपुष्पपेशलैः / पत्रजर्जरशशिप्रभालौरेभिरुत्कचयितु तवालकान् // 72 / / एष चारुमुखि योग्यतारया युज्यते तरलबिम्बया शशी। साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः / / 73 / / 15 पाकभिन्नशरकाण्डगौरयोरुल्लसत्प्रकृतिजप्रसादयोः / रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्षिण चन्द्रिका 74 / लोहितार्कमणिभाजनापितं कल्पवृक्षमधु बिभ्रति स्वयम् / त्वामियं स्थितिमतीमुपागता गन्धमादनवनाधिदेवता / / 75 // आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः / 20 अत्र लब्धवसतिगुणान्तरं किं विलासिनि मदः करिष्यति / 76 / मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् / इत्युदारमभिधाय शंकरस्तामपाययत पानमम्बिकाम् / 77 / पार्वती तदुपयोगसंभवां विक्रियामपि सती मनोहराम् / अप्रत_विधियोगनिर्मितामाम्रतेव सहकारतां ययौ / / 78 // 25 तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः / सा बभूव वशवतिनी द्वयोः शूलिनः सुवदना मदस्य च // 76 / /