________________ 196 ] [ काध्यषट्कं घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दु मदकारणस्मितम् / आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ / / 80 // तां विलम्बितपनीयमेखलामुद्वहजघनभारदुर्वहाम् / ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः / / 81 // तत्र हंसघवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् / अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः / 82 / क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययापितनखं समत्सरम् / तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये / / 83 // केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु / 10 तेन तत्प्रतिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् // 4 // स व्यबुध्यत बुधस्तवोचितः शातकुम्भकमलाकरैः समम् / मूर्च्छनापरिगृहीतकैशिकः किंनरैरुषसि गीतमङ्गलः / / 8 / / तो क्षणं शिथिलितोपगृहनौ दंपती चलितमानसोमयः। पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः // 86 // 15 ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः / वाससः प्रशिथिलस्य संयम कुर्वती प्रियतमामवारयत् / / 7 / / स प्रजागरकषायलोचनं ___ गाढदन्तपरिताडिताधरम् / पाकुलालकमरंस्त रागवा न्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् // 18 // तेन भिन्नविषमोत्तरच्छदं __ मध्यपिण्डितविसूत्रमेखलम् / निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् // 89 / / 25 स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः / दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् // 10 //