________________ (2) कुमारसंभवं :: अष्टमः सर्गः ] [ 161 तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् / सागरादनपगा हि जाह्नवी सोऽपि तन्मुख रसैकवृत्तिभाक् / 16 / शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया। शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् / / 17 / / 5 दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा / शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः / / 18 / / चुम्बनादलकचूर्णदूषितं शंकरोऽपि नयनं ललाटजम् / उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने / / 16 / / एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः / 10 शैलराजभवने सहोमया मासमात्रमवसदृषध्वजः // 20 // सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् / तत्र तत्र विजहार संपत (चर)न्नप्रमेयगतिना ककुद्मता / 21 / मेरुमेत्य मरुदारुगोक्षकः पार्वतीस्तनपूरस्कृतः कृती। हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् // 22 / / 15 पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविषो नवाः / मन्दरस्य कटकेषु चावसत्पार्वतीवदनपद्मषट्पदः / / 23 / / रावणध्वनित भीतया तया कण्ठसक्तदृढबाहुबन्धनः / एकपिङ्गल गिरौ जगद्गुरुनिविवेश विंशदाः शशिप्रभाः / 24 / तस्य जातु मलयस्थलीरतेधूतचन्दनलतः प्रियाक्लमम् / आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः / / 25 / / हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा / सा व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला / / 26 / / तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् / नन्दने चिरमयुग्मलोचन: सस्पृहं सुरवधूभिरीक्षितः // 27 // 25 इत्यभौममनुभूय शंकरः पार्थिवं च दयितासखः सुखम् / लोहितायति कदाचिदातपे गन्धमादनवनं व्यगाहत / / 2 / / 20