________________ 160 ] [ काव्यषट्कं कैतवेन शयिते कुतूहलात्पार्वती प्रति मुखं निपातितम् / चक्षुरुन्मिपति सस्मितं प्रिये विद्युताहतमिव न्यमीलयत् // 3 // नाभिदेशनिहितः सकम्पया शंकरस्य रुरुधे तया करः / तदुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् / / 4 / / 5 एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति / सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये // 5 // अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् / वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ // 6 // शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका / तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् / / 7 / / चुम्बनेष्वधरदानवजितं खिन्नहस्तसदयोपगृहनम् / क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् // 8 // यन्मुखग्रहणमक्षताधरं दानमवरणपदं नखस्य यत् / यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् // 6 // 15 रात्रिवृत्तमनुयोक्तुमुद्यतं सा प्रभातसमये सखीजनम् / नाकरोदपकुतूहलं ह्रिया शंसितुं तु हृदयेन तत्वरे // 10 // दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः / प्रेक्ष्य बिम्बमुपबिम्बमात्मनः कानि कानि न चकार लज्जया। नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् / भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः / / 12 / / वासराणि कतिचित्कथंचन स्थाणुना रतमकारि चानया। ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् 13 सस्वजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरेत् / मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा / / 14 / / 25 भावसूचितमदृष्टविप्रियं दाढय भावक्षणवियोगकातरम् / कैश्चिदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम् / / 15 / /