________________ द्वितीयः सर्गः ] [ 146 5 स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् / परिच्छिन्नप्रभावद्धिर्न मया न च विष्णुना // 58 // उमारूपेण ते यूयं संयमस्तिमितं मनः / शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् // 56 / / उभे एव क्षमे वोढुमुभयो/जमाहितम् / सा वा शम्भोस्तदीया वा मूतिर्जलमयी मम / / 60 / / तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः / मोक्ष्यते सुरबन्दीनां वेणी:र्यविभूतिभिः // 61 / / इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे / 10 मनस्याहितकर्तव्यास्तेऽपि देवा दिवं ययुः // 62 / / तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः / मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा / / 63 / / अथ स ललितयोषिद्धूलताचारुशृङ्ग रतिवलयपदाङ्के चापमासज्य कण्ठे / 15 सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा // 64 / / . (मालिनी) // इति श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये ब्रह्म साक्षात्कारो नाम द्वितीयः सर्गः / / 2 / /