________________ 150 ] [ कुमारसंभवं // 3 // तृतीयः सर्गः।। तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्षणां युगपत्पपात / प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु // 1 // स वासवेनासनसन्निकृष्टमितो निषीदेति विसृष्टभूमिः / 5 भर्तुः प्रसादं प्रतिनन्द्य मूर्ना वक्तुं मिथः प्राक्रमतैवमेनम् // 2 // अाज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति / अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते / / 3 / / केनाभ्यसूया पदकाक्षिणा ते नितान्तदीर्घर्जनिता तपोभिः / यावद्भवत्याहितसायकस्य मत्कार्मकस्याऽस्य निदेशवर्ती / / 4 / / असम्मतः कस्तव मुक्तिमार्ग पुनर्भवक्लेशभयात्प्रपन्नः / बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षः / / 5 / / अध्यापितस्योशनसाऽपि नीति प्रयुक्तरागप्रणिधिद्विषस्ते / कस्याऽर्थधमौं वद पीडयामि सिन्धोस्तटावोध इव प्रवृद्धः / 6 / कामेकपत्नीव्रतदुःखशीला लोलं मनश्चारुतया प्रविष्टाम् / 15 नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयंग्राहनिषक्तबाहुम् / 7 / कयासि कामिन् ! सुरतापराधात्पादानतः कोपनयाऽवधूतः / तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् // 8 // प्रसीद विश्राम्यतु वीर ! वज्र शरैर्मदीयैः कतमः सुराऽरिः / .... बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताऽधराभ्यः / / 9 / / तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा / कुर्यां हरस्याऽपि पिनाकपाणे२५ धैर्यच्युति के मम धन्विनोऽन्ये // 10 // परति