SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 146 ] : [ कुमारसंभवं किमिदं द्युतिमात्मीयां नः बिभ्रति यथा पुरा / हिमक्लिष्टप्रकाशानि ज्योतीषीव मुखानि वः / / 16 / / प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् / वृत्रस्य हन्तुः कुलिशं कुण्ठितास्रीव लक्ष्यते / / 20 / / . 5 किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः / मन्त्रेण हतवीर्यस्य फणिनो द्वैन्यमाश्रितः / / 21 // कुबेरस्य मनःशल्यं शंसतीव पराभवम् / अपविद्धगदो बाहर्भग्नशाख इव,द्रमः // 22 // यमोऽपि बिलिखन्भूमि दण्डेनास्तमितत्विषा / 10 कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् // 23 // अमी च कथमादित्याः प्रतापक्षतिशीतलाः / . चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् // 24 // पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते / अम्भसामोघसंरोधः प्रतीषगमनादिव / / .25 / / 15 आवजितजामौलिविलम्बिशशिकोटयः / . रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः / / .26 // लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरः / / अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः / / 27 / / तब्रूत वत्साः ! किमितः प्रार्थयध्वं समागताः / मयि सृष्टिहि लोकानां रक्षा युष्मास्ववस्थिता // 28 // ततो मन्दाऽनिलोद्ध तकमलाकरशोभिंना। . . गुरुं नेत्रसहस्रण नोदयामास वासवः // 26 // . स द्विनेत्रं हरेश्चक्षुः सहस्रनयनाधिकम् / वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् / / .30 / / 25 एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् / प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो / / 31 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy