________________ द्वितीयः सर्गः ] [ 145 तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् / प्रलयस्थितिसर्गाणामेक: कारणतां गतः // 6 // स्त्रीपुंसावात्मभागौ (वी) ते भिन्नमूर्तेः सिसुक्षया। प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ // 7 // 5 स्वकालपरिमाणेन व्यस्तरात्रिदिवस्य ते। यौ तु स्वप्नाऽवबोघौ तौ भूतानां प्रलयोदयो // 8 // जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः / जगदादिरनादिस्त्वं जगदीशो निरीश्वरः // 9 // प्रात्मानमात्मना वेत्सि सृजस्यात्मानमात्मना। आत्मनां कृतिना च त्वमात्मन्येव प्रलीयसे // 10 // द्रव: संघातकठिन: स्थूल: सूक्ष्मो लघुर्गुरुः / / व्यक्तो व्यक्त तरश्चाऽसि .प्राकाम्यं ते विभूतिषु / / 11 / / उद्धात: प्रणवो यासां न्याय स्त्रिभिरुदीरणम् / कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् / / 12 / / 15 त्वामामनन्ति प्रकृति पुरुषार्थप्रवर्तिनीम् / तद्दशिनमुदासीनं त्वामेव पुरुषं विदुः / / 13 / / त्वं पितृणामपि पिता देवानामपि देवता। परतोऽपि परश्चाऽसि विधाता वेधसामपि / / 14 / / त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः / वेद्यं च वेदिता चाऽसि ध्याता ध्येयं ज यत्परम् / / 15 / / इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः / प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः / / 16 // पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता / प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी / / 17 / / 25 स्वागतं स्वानबीकारान्प्रभागैरवलम्ब्य वः / युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः / / 18 / /