________________ रघुवंशे पञ्चदशः सर्गः ] [ 111 उपशल्यनिविष्टस्तैश्चतुरमुखी बभौ / / अयोध्या सृष्टंलोकेव सद्यः पैतामही तनुः / / 60 // श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः / अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी // 61 / / 5 विधेरधिकसंभारस्ततः प्रवक्ते मखः / आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः // 62 / / अथ प्राचेतसोपज्ञं रामायणमितस्ततः / मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ / / 63 / / वृत्तं रामस्य वाल्मीके: कृतिस्तो किंनरस्वनौ / 10 किं तद्येन मनो हतु मलं स्यातां न शृण्वताम् / / 64 / / रूपे गीते च माधुर्य तयोस्तज्ज्ञैनिवेदितम् / ददर्श सानुजो रामः शुश्राव च कुतूहली / / 65 / / तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ। . हिमनिष्यन्दिनी प्रातनिर्वातेव वनस्थली / / 66 / / 15 वयोवेषविसंवादि रामस्य च तयोस्तदा। जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत / / 67 / / उभयोन तथा लोकः प्रावीण्येन विसिष्मिये / नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा // 68 / / गेये को नु विनेता वां कस्य चेयं कृतिः कवेः / 20 इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् / / 66 / / अथ सावरजो रामः प्राचेतसमुपेयिवान् / ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् / / 70 / / स तावाख्याय रामाय मैथिलेयौ तदात्मजौ / कविः कारुणिको ववे सीतायाः संपरिग्रहम् / / 71 / / 25 तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि / दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः / / 72 / /