________________ ] 4 ] // ॐ ह्रीं अर्ह नमः / / of "सुशीलनामनाला"-निर्माणकृते शुभाशीराशिमालामुनीन्द्रं तीर्थपं सावं, नौमि नेमि जगद्गुरुम् / लावण्- शीलशाल्यङ्ग, दक्षमोदक्षमोत्तमम् // 1 // "यथा नाम तथा गुणाः" इत्युक्तिमनुसृत्येयं नाममाला Ey सुन्दरतरशीलालङ्कारालङ्कृतत्वाद्यथार्थाभिधानागुणनिधाना च। कलिकालकल्पतरुकल्प- कलिकालसर्वज्ञेन भगवता ॐ श्रीमद्धेमचन्द्राचार्यवर्येण विरचिता 'ऽभिधानचिन्तामणि' सदभिधानशब्दकोषयटिष्ठपरिपाटीपरिपुष्टत्वेन सुवर्णसुवाससंवलनसादृश्यं समजनिष्ट / दृग्गता पठ्यमाना चेयं 'सुशीलनाममाला', संस्कृतसाहित्योपासक-सर्वजनता-सार्वजनीनता जनयतु, विजयतु तुच जगतीतले समुद्र-सूर्य-सुधाकर-कमलाकर-धराधरादिसंस्थिति यावद् / शाखविशारद-कविभूषण-साहित्यरत्नाचार्यश्रीविजयसशोलसरिवरो मदोयसांसारिकोऽनजोऽपि विनेयोऽपि सुशीलतालतालवालकल्पोऽनल्पायुष्मान् सम्भूय श्रीजिनेन्द्रशासनप्रभावनाभा सुरकार्यकलापकरणोद्यतो भवत्वनुदिनमिति मे मङ्गलमनीषासहकृतशुभाशीराशिमालासराला॥ 2503 श्रीवीराब्दे, 2033 विक्रमेऽब्दे, 28 श्रीनेमिवत्सरे, सु 13 लावण्यवर्षे, चैत्रशक्लसप्तम्यां, रविवासरेऽलेखि विजयदक्षसूरिणा॥ दिनाङ्कः-२७-३-७७ / मरुधरस्थे जावालनगरे शाश्वतीचंत्रीश्रीनवपदावलिसमाराधना याः प्रथममङ्गलदिने चेति शुभं र कल्याणमस्तु // N O * * * ** * *