________________ 18......... सुशीलनाममालायां * चन्द्र सूर्यग्रहणनामांनि के सूर्येन्द्रो राहुग्रासे' स्या-दुपराग उपप्लवः / * उपद्रवनामानि * .. उपसर्ग' स्त्वरिष्टं स्या-दुपलिङ्ग मुपद्रवः // 11 // उत्पात तथाऽजन्य -मीति"श्च तदनन्तरम् / एते चोपद्रवाः ज्ञेयाः, वय त्पात' उपाहित:२ // 11 // ___* कालनामानि * कालो' दिष्टो ऽप्यनेहा: स्यात्, समयः सर्वमूषकः / कालो द्विधाऽवसपिण्यु-त्सर्पिणीकालभेदतः // 120 // षडरा अवसर्पिण्या-मुत्सपिण्यां त एव वै। एवं द्वादशभिश्चारैः, वर्तते कालचक्रकम् // 121 // अष्टादश निमेषाः स्युः, काष्ठा' काष्ठाद्वयं भवेत् / लवस्तु तैः कला' पञ्च-दशभि रपि ज्ञायताम् // 122 // लेश' स्तु तद्वयेनैव, तैः पञ्चदशभिः क्षणः' / नाडिका' तु क्षरणैः षभिः , धारिका घटिका च सा // 123 // तद्वयेन मुहूर्त स्तु, तथा तैरपि त्रिशता / अहोरात्रस्तु सम्पूर्ण, दिवसः कथितो बुधैः // 124 // * दिवसनामानि * अह' दिन ञ्च धव' धु, दिवसो वासरो दिवम् / * प्रभातनामानि * . प्रभातं तु विभातं च, प्रत्यूषं स्यादहमुखम् // 125 //