________________ सुशीलनाममालायां -10 [ योगस्य षष्ठाङ्गधारणा, सप्तमाङ्ग च ध्यानम् ] क्वचिद् ध्येये तु चित्तस्य, स्थिरबन्धोहि धारणा' / ध्यानं तद् विषये चैक-प्रत्ययसन्तति मंतम् // 61 // [योगस्याष्टमाङ्ग समाधिः ] समाधि श्च तदेवार्थ-मात्राभासनरूपकम् / एवं योगोष्टधा प्रोक्तः, यमाद्यङ्गाष्टकेन च // 62 // * कल्याण मङ्गलादिशुभनामानि * श्रेयः' श्वःश्रेयस क्षेमं, कुशल श्वोवसोयसम् / भावुक भविकं भव्यं, भद्रं मद्रं तथा शुभम् // 3 // प्रशस्तं सुकृतं शस्तं'४, सूनृतं१५ च ततः परम् / कल्याणं मङ्गलं "चव, भद्रं काम्यं तथा शिवम् 20 // 64 // / इति श्रीतपोगच्छाधिपति - सूरिचक्रचक्रवत्ति * भारतीयभव्यविभूति चिरंतनयुगप्रधानकल्प - सर्वतन्त्रस्वतन्त्र - श्रीकदम्बगिरिप्रमुखानेकप्राचीन / तीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनसम्राट् - जगद्गुरु- 3 भट्टारकाचार्यमहाराजाधिराज - श्रीमद् विजयनेमिसूरीश्वर - सुप्रसिद्ध 1 पट्टालङ्कार - व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न साहित्यसम्राट् , / साधिक सप्तलक्षश्लोक प्रमाण नूतन संस्कृत साहित्यसर्जक-परमशासन , प्रभावकाचार्यदेवेश धीमद् विजयलावण्यसूरीश्वर पट्टधर-व्याकरणरत्न- . शास्त्रविशारद- कविदिवाकर-देशनादक्ष - शासनप्रभावकाचार्यदेव - श्रीमद् विजयवक्षसूरीश्वर * पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्च प्रस्थानमयसूरिमन्त्रसमाराधक शासनप्रभावकाचार्य श्रीमद्विजयसुशील सूरिणा विरचितायां सुशीलनाममालायां प्रथमो देवाधिदेवविभागः समाप्तः // 1 // www.rammmmmmmmmmmmmmmmm