________________ प्रशस्तिः 466 सान्त्वने बरुणे ताते, रुद्रे वः पुसि कथ्यये / अव्ययो व विकल्पेऽर्थे, उपमाने समुच्चये / / 4 / / वि:शकुनो श्रेष्ठे भीते, नानार्थे व्योम्नि कथ्यते / हेत्वर्थे पाद पूर्णे च, वै शब्दोऽव्ययः सदा // 45 / / द्वितीयायां च तुझंञ्च, षष्ठ्यां युष्मद्वहुषु वः / अासामेव विभक्तीनां, द्वित्वे वा युष्मदः सदा / / 46 / / कल्याणे शं सुखार्थेऽपि, सास्नायां शान्तिमति शः / शीः शये हिंसनेऽर्थऽपि, शुश्चन्द्रेर्थे प्रयुज्यते / / 47 / / षः सदारे जने प्रोक्तः, तथेष्ट प्रसवे च धूः / सः पुमान् सूर्यंतात्पर्ये, परोक्षेऽपि प्रयुज्यते / / 4 / / सङ्कोचे कबोक लिङ्ग सं, संयोगे शोभनेऽपि सः / प्रकृष्टार्थे समर्थे च, समू संदा कथ्यतेऽव्ययः / / 4 / / प्रथमान्त तदः स्थाने, स्मृतौ लक्ष्म्यां च सा भवेत् / क्रोधे नीरे करे शम्भौ, निवासे गर्भ भाषणे / / 5 / / हः पुमानव्ययः प्रोक्तः, संबुद्धौ पाद पूरणे / हा शब्दोऽव्ययः प्रोक्तः शोके दुःख विषादयोः / / 51 / / विशेषे पाद पूत्तौं हि, हेतौ स्फुटेऽवधारणे / दानार्थेऽव्ययो हि स्याद्, ही विषादे च विस्मये / / 2 / /