________________ प्रशस्तिः 467 ढक्कायां डः समाख्यात स्तथाऽयं निर्गुणे ध्वनौ / प्रकटे निष्फले णः स्यात् ज्ञाने बन्धे च प्रस्तुते / / 26 / / तः पुमान् तस्करे कोड़े युद्ध पृच्छे च ता स्त्रियाम् / तुः स्यात् पूर्वे निवृत्तीच पूर्वस्मादवधारणे / / 27 / / भये च रक्षणे थः स्यात् विकल्पेऽपि विलक्षणे / दः पुंसि दायके दाने दं कलत्रं नपुंसकम् / / 28 / / दा दातरि तथा दाने छेदने बन्धनेऽपि दा / धं नपुंसकमाख्यातं धीरे. च धनदे धने / / 26 / / चित्रेऽश्ववारे घः पुंसि धी बुद्धाविषुधावपि / धा विरञ्चौ गुह्यकेशे भारे कम्पेऽपि धूः स्मृता // 30 // . धूते धुरा कम्पने धू: नो बुद्धौ ज्ञान बन्धयोः / अस्मानस्मभ्यमस्माक मेषां स्थाने भवेच्च नः / / 31 / / नो निषेधेऽव्ययो न नरे ना पुंसि कथ्यते / निः क्षेपे स्यादथ नित्यार्थे भृशार्थाश्रयराशिषु / / 32 / / बन्धने संशये मोक्षे, कौशले दारुकर्मणि / प्रधो भावोपरमयोः, संनिधानेऽव्ययो मतः॥३३॥ नुः स्तुती नेतरिस्यात्, निःश्रुते पुंसि कथ्यते / नुः प्रश्ने च वितर्के च, विकल्पेऽनुशयेऽव्ययः / / 34 / /