________________ 466 सुशीलनाममालाया कुम्भे तथा च हनने घोषान्तर्भाव किङ्किणीषु घः। .. विषयो भैर वो ङार्थः, चस्तरौ चन्द्र चौरयोः // 17 // किन्तु निम्नार्थ बोधेषु चमारोऽव्यय इष्यते। अन्योन्याऽर्थे विकल्यार्थे सेमास पाद पूरणे / / 18 / / पक्षान्तरे समूहार्थे हेताववधृतावपि / अन्वाचये पुनस्तुल्य योगितायान्तथैव च / / 16 / / चुश्चकोरे प्रयुज्येत पुमानेव सदा बुधैः / छेदके छस्तथा सूर्ये संवरणेऽपि छः पुमान् / / 20 / / तडिन्निर्मल छन्दस्सु छमिति संप्रयुज्यते / जनने जेतरि ज: स्यात् विगतेऽपि प्रकीर्तितः / / 21 / / जेतरि केवलं जिः स्यात् पुमानेवेति निश्चयः / जू विहायसि विगते पिशाच्यां जवने तथा / / 22 / / झः पुंसि गायने नष्टे घर्वर ध्वनि नामनि / व्यूहने गूढ पादे झः चारु वाक् चरणे पुनः / / 23 / / ध्वनौ वायो पृथिव्यां टः करके भुवि टं स्मृतम् / चकोरेऽब्दे तथा ठः स्यात् घटे शून्ये बृहध्वनी / / 24 / / डः स्याद् ध्वनौ वृषाङ्कऽपि रुद्र चन्द्रस्य मण्डले / बन्दिवृन्देऽपि डः प्रोक्तो यामिनी पति मण्डले / / 25 / /