________________ प्रशस्तिः 465 ऋः पुमानुच्यते छागे, दानेऽर्थेऽपि च कथ्यते / ऋः पुंसि देवजननी, वाराह्यामः प्रयुज्यते // 8 // ए विण्णौ युज्यते पुंसि, वृषभध्वज ऐः स्मृतः / ओ रूर्व लिङ्ग; ग्राहूतावव्ययः स्यादनन्त प्रोः // 6 // पर ब्रह्मणि शम्भौ च ओं शब्द उच्यतेऽव्ययः / सूर्ये मित्रेऽनले वायो ब्रह्मात्मयम केलिषु // 10 // कः पुमानुच्यते विशैः प्रकाशे वदने पुनः / जले सुखे मस्तके कं नपुंसके प्रयुज्यते // 11 // भुवि कुत्सित शब्दार्थे पापीयसि निवारणे। कः पुंसि पण्डितैः प्रायः प्रयोगः क्रियते सदा // 12 // ईषदर्थे च किं शब्द: कुत्सने क्षेप प्रश्नयोः / विताश्चर्य निन्दासु कि शब्दोऽव्ययः स्मृतः / / 13 / / ख मिन्द्रिय स्वर्गशून्य भूषाऽकाशमुखे स्मृतम् / शून्ये संविदि खं प्रोक्तं सूर्यार्थे पुंसि खः स्मृतः / / 14 / / ... गन्धर्वार्थे गणेशे च गः पुमान् ग श्च गातरि / गीते गं कोवलिङ्ग मुच्यते पण्डितैरिह // 15 / / वाग् वाण भूमि रश्मि वज्र स्वर्गाक्षि वारिषु / दिशि धेनौ श्रुतेश्वर्यां गणेशे गौ: सदा स्मृतः / / 16 / /