________________ सुशोलनाममालायाः परिशिष्ट भागः yrrrrrrrrrrrror 1 एकाक्षर कोशमाला time-nary 977 : वद्धमानं जिनं नत्वा, कोशार्थे वधनेच्छया / , प्रकाराद्यक्षरणाञ्च, दश्यतेऽर्थः क्रमादिह // 1 / / . अ पुमान् विष्णुरूपार्थे, स्वल्पार्थेऽव्यय उच्यते / आ कारो धातरि ख्यात, या वाक्ये स्मरणेऽव्ययः / / 2 / / मन्तापार्थक प्रावर्णः, प्रयोगे दृश्यतेऽव्ययः / हः कामः पठ्यते पुसि, क्वीवे इ कोप खेदयोः / / 3 / / ई रिति ज्ञायते पुसि, लक्ष्मीबोधन हेतवे / प्रत्यक्षे दुःख भावे च. ई भवेदव्ययः सदा // 4 // प्रकोपार्थे समीपार्थे, ई अव्ययः प्रयुज्यते / उ महादेव प्राख्यातः, पुल्लिङ्गः पण्डितैः सदा / / 5 / / रोपार्थे मन्त्रणार्थे च, उं भवेदव्ययः पुनः / प्रश्न स्वीकारयो रोष, ऊ रस्ति रक्षणे पुमान् / / 6 / / ऊ मव्ययः प्रकर्षोक्तौ प्रश्ने ऋदेव मातरि। . कुत्सायां वचनार्थे च, ऋ वर्णोऽव्ययः स्मृतः // 7 // .