________________ प्रशस्तिः 463 सप्तलक्षाधिकश्लोक-मितस्य संस्कृतस्य च / साहित्यस्य सुकर्तारः, कृतीशा ब्रह्मचारिणः / / 16 / / शान्ता: साहित्यसम्राजो, विभ्राजो ज्ञानज्योतिषा। ख्याता व्याकरणे वाच-स्पतयः कविरत्नकाः // 17 // शास्त्रविशारदा जाता, लावण्यसूरिशेखराः / तेषां पट्टधरा मुख्याः, ख्याताः शास्त्रविशारदाः / / 18 / / कविदिवाकरा दक्षाः, सद्व्याकरणरत्नकाः / दक्षसूरीश्वरा जाताः, सरला ब्रह्मचारिणः / / 16 / / सेषां पट्टधरेणाथ, सहोदरेण साधुना / देवगुरुप्रसादात् श्रीसुशीलसूरिणा मया / / 20 / / जम्बूद्वीपे प्रसिद्धेऽस्मिन्, रम्ये भरतक्षेत्रके / भरते दक्षिणार्द्ध श्रो-मध्यखण्डे विराजिते / / 21 / / राजस्थाने हि विख्याते, मरुधर प्रदेशके / पालीपुरे हि प्रख्याते, वर्षास्थिति प्रकुर्वता / / 22 / / अश्व नेत्र नभो बाहु [2027] मिते वैक्रमवत्सरे / सुशोलनाममालेयं, विज्ञ बोधाय संस्कृता / / 23 / / / यावन्मेरुस्वयम्भू श्री-सूर्यचन्द्रग्रहाः स्थिताः / भूयात् तावदियं विश्वे, सर्वजनोपकारिका / / 24 / / ॐ शुभं भूयात् ॐ // इति 'सुशोलनाममाला' समाप्ता / /