________________ सुशीलनाममालायो समन्ताद् वनवासोति, सामन्तभद्रसूरिपः / स्वच्छं गच्छं वितेने सः, तदनु भद्रकृद् भुवि // 6 // सर्वदेवाख्य सूरीशः, सर्वश्रयस्करं कलम् / वटगच्छं पवित्रं च, विशालं तदनु व्यधात् / / 7 / / श्रीमेदपाट भूपाल महातपापदै भुवि / श्रीजगच्चन्द्रसूरीशै स्तपागच्छः प्रवत्तितः / / 8 / / परम्परागते स्वच्छ, तपागच्छे ऽत्र भूतले। यवनाकबरे लेश-प्रतिबोधकरा: वरा: / / 6 / / धीर वोरत्व हीरत्व-गभोरत्वादि भूषिताः / जगद्गुरुवराः विज्ञाः सजाता होरसूरयः // 10 // प्रतापि सेनसूरीश दक्षः श्रीदेवसूरिभिः। वादीभैः सिंहकल्पः श्रो-सिंहसूरीश्वरैः क्रमात् / / 11 // उल्लासिते तपोगच्छे, वृद्धिविजयकारकाः / श्रीवृद्धिविजया जाता, वृद्धिचन्द्रादयः परे / / 12 / / तेषा ञ्च शान्तमूर्तीनां, पादाब्जमधुपोपमाः। सर्वशासनसम्राजो, विभ्राजो ज्ञानरश्मिभिः // 13 // सत्तोर्थोद्धारकाः प्रौढा, सर्वतन्त्रस्वतन्त्रकाः / सूरिमन्त्रकप्रस्थान-पञ्चकाराधकाः किल // 14 // सद्ब्रह्मचारिणः श्रीमन्नेमिसूरीश्वरा वराः / क्षमाधराचिंता जातास्तत्पट्टाम्बर भास्कराः // 15 //