________________ mnmormolti 3 प्रशस्तिः inommonman mms 87 [ उपजाति-वृत्तम् ] श्री प्रादिनाथं जिनशान्तिनाथ, श्रीनेमिनाथं प्रभु पार्श्वनाथम् / देवाधिदेवं विभुवर्द्धमानं, स्तुवे सदाऽहं जिनपञ्चकं वै // 1 // [ अनुष्टुब्-वृत्तम् ] श्रीधोरस्य जिनेन्द्रस्य, शासनाधिपतेः प्रभोः / विजयते सदा विश्वे, पट्ट धर्मधुरन्धरम् / / 2 / / तत्र स्वामी सुधर्माख्यो गणोन्द्रः श्रुतकेवलो। निम्रन्थ नामकं गच्छ-मतनोद् भुवि निर्मलम् / / 3 / / कोटिशः सूरिमन्त्रस्य, जपात् सुस्थितसूरिभि / कोटिगच्छमतिस्वच्छं, स्थापितं तन्महीतले // 4 // चन्द्रं चन्द्रोज्ज्वलं भूयः, सद्यशो रश्मि शोभितः। अनुचकार गच्छ-श्री-चन्द्रसूरीश्वरो महान् // 5 //