________________ 440 सुशीलनाममालाया * गवेषितनामानि * .. अन्वेषितं' तथाऽन्विष्ट, मागितं मृगित पुन: // 2712 // गवेषित ञ्च नामानि, पञ्चव प्रथयन्ति वै / * आर्द्रनामानि * ... पाः' सार्द्रः समुत्त इच, तिमितः स्तिमित स्तथा // 2713 // उन्नः क्लिन्नः समुन्न' श्च, नामान्यष्टौ भवन्ति वै। __ * प्रेषितनामानि * प्रहितं' प्रेषितं चंव, ख्यातं प्रस्थापितं तथा // 2714 // प्रतिशिष्ट भवेन्नाम, चतुर्थ प्रेषितार्थके। * प्रसिद्धनामानि * . प्रतीतः' प्रथितः 2 ख्यातः३, वित्त इच विश्रुतः पुनः // 2715 // विज्ञात श्चैव प्रज्ञातः , प्रसिद्धो ऽपि प्रसिद्धकः / एतन्नामानि मन्यन्ते, प्रथितस्य बुधै रिह // 2716 // * सन्तापितनामानि * सन्तापित' च सन्तप्त, धूपायित' श्च धूपितः / . दून स्तप्त श्च नामानि, सन्तप्तस्य भवन्ति वै // 2717 //