________________ 428 सुशीलनाममालायां * एकाकिनामानि * ... एकाको' चककर श्चकः, कथ्यते ऽवगरणोऽपि च / ___ * एकाग्रनामानि है एकतान'-मेकायन-मेकसर्ग ञ्च तद्गतम् // 2650 / / एकायनगतं'-चैकान मैकाग्र -ञ्च वै पुनः / एकाग्र्यो ऽनन्यवृत्ति श्च, स्थिरचित्तस्य बोधने / / 2651 / / ॐ आदिनामानि (r) प्राद्य'-मादिम-मादि: श्च, पौरस्त्यं प्रथम पुनः / पूर्व -मग्रं तथा प्राक्च , वाक्ये प्रथमवाचकः // 2652 // * अन्तिमनामानि* अन्त्य' मन्तिम २-मन्त इच; पाश्चात्यं पश्चिम पुनः / जघन्यं चरमं चेति, नामानि चरमस्य वै // 2653 // * मध्यमनामानि 8 मध्यम' मध्यमीयं च, मध्यन्दिनं च माध्यमम् / माध्यन्दिनं च नामानि, मन्यन्ते मध्यमस्य वै // 2654 // * अभ्यन्तरनामानि ॐ अन्तराल' विचाल' ञ्च, ज्ञेयमभ्यन्तरं पुनः।