________________ 262 सुशीलनाममालायां मङ्गलो' जाङ्गलो देशो, जलं विना च निर्जल: / .. अनूप' श्चाऽम्बुमान् देशः, स स्याद् यत्र जलं बहु // 1622 // प्रोक्तः पुनः जलप्राय, -देशः कच्छो'ऽपि तद्विधः / कुमुद्वान् ' कुमुदावासः२, कुमुद्वान् देश उच्यते // 1623 // प्रदेशो बहु वेतस्वान्, वेतस्वान्' भूरिवेतसः। नड्वान् ' तु नडकीय इच, नडप्राय 3 श्च नड्वलः // 1624 / / नलर्तृणाधिके देशे, सर्वमेतत्प्रयुज्यते / शाड्वलः' शादल' श्चैव, शादहरित' इत्यपि // 1625 // हरिततृणवान् देशः प्रोक्तः प्रायेज्ञा पण्डितः / नद्यम्बुजीवनो' देशो, नदीमातृक इत्यपि // 1626 // वर्षाभि र्जीवनं यत्र, स देशो देवमातृक:' / तत्रैवार्थे बुधरत्र, वृष्टिजीवन' उच्यते // 1627 // प्रदेशः कामरूपाः वै, तथा प्राग्ज्योतिषाः पुनः। अवन्तयश्च विख्याताः, मालवा: अपिसर्वतः / / 1628 / / पुरा:' डाहला' श्चंद्याः, चेदयः पूर्वभारते। बङ्गा' श्च हरिकेलियाः२, प्रोक्ता बङ्गाल नामनि // 1626 // . चम्पोपलक्षिता अङ्गाः', ऊक्ता बिहारदेशके / साल्वा' च कारकुक्षीयाः२, साल्वदेशे हि कथ्यते // 1630 //