________________ 260 सुशीलनाममालायां तथोपावर्तनं चापि, विषय चोपवर्तनम् / .. नामान्येतानि मन्यन्ते, देशस्य विबुधै भुवि // 1610 / / पार्यावर्त' स्तथाऽऽचार-वेदी च पुण्यभूः पुनः / जिनचक्रय चक्रियां, जन्मभूमि हि मन्यते // 1611 // विन्ध्यहिमागयो मध्य-प्रदेशो कथ्यते स च / पूर्व-पिश्चमयोः सिन्धो, मध्यभागोऽपि मन्यते / / 1612 / / 'पञ्च हैरण्यवतक्षेत्राणि' यथाजम्बूद्वीपे हैरण्यवतक्षेत्रमेकमेव, धात कोखण्डे हैरण्यवतक्षेत्र द्वयमेव, पुष्करवरद्वीपाद्धऽपि च हैरण्यवतक्षेत्र द्वयमेव वर्तते / 'पञ्च देवकुरुक्षेत्रारिण' यथाजम्बूद्वीपे देवकुरुक्षेत्रमेकमेव, धातकोखण्डे देवकुरुक्षेत्र द्वयमेव, पुष्करवरद्वीपाद्धेऽपि च देवकुरुक्षेत्र द्वयमेव वर्तते / 'पञ्चोत्तर कुरुक्षेत्रारिण' यथाजम्बूद्वीपे उत्तरकुरुक्षेत्र मेकमेव, धातकीखण्डे उत्तर कुरुक्षेत्र द्वयमेव, पुष्करबरद्वीपाद्धऽपि च उत्तरकुरुक्षेत्र द्वयमेव वर्तते / तानि मिलित्वा विशवक्षेत्राणि वर्तन्तेऽकर्मकभूम्याम् / तत्र युगलिक. मनुष्याः निक्सन्ति // [इति जिनागमेऽपिकथितम्]