________________ चतुर्थस्तिर्यविभागः 256 * देशनामानि* वर्ष वर्षधराद्य, क्षेत्रसंज्ञा निगद्यते / देशो' जनपदो राष्ट्र, नीवृत् निर्ग' श्च मण्डलम् // 1606 // 'पञ्चैरावतक्षेत्राणि' यथाजम्बूद्वीपे ऐरावतक्षेत्रमेकमेव, धातकीखण्डे ऐरावतक्षेत्रं द्वयमेव, पुष्करवरद्वीपाऽपि चरावतक्षत्र द्वयमेव वर्तते / 'पञ्महाविदेहक्षेत्रारिण' यथाजम्बूद्वीपे महाविदेहक्षेत्र मेकमेव, धातकीखण्डे महाविदेहक्षेत्र द्वयमेव, पुष्करवरद्वीपार्धे ऽपि च महाविदेहक्षेत्रं द्वयमेव वर्तते / तानि सर्वाणि मिलित्वा पञ्चदश क्षेत्राणि कर्मभूम्यां वर्तन्ते // . 'पञ्च हैमवतक्षेत्राणि' 'यथाजम्बूद्वीपे हैमवतक्षेत्रमेकमेव, घातकोखण्डे हैमवतमेशं द्वयमेव, पुष्करवरद्वीपाऽपि च हैमवतक्षेत्रं द्वयमेव वर्तते। 'पञ्च हरिवर्षक्षेत्रारिण' यथाजम्बूद्वीपे हरिवर्षक्षेत्रमेकमेव, धातकीखण्डे हरिवर्षक्षेत्र द्वयमेव, पुष्करघरद्वीपाद्धेऽपि च हरिवर्षक्षेत्र द्वयमेव वर्तते। . 'पञ्च रम्यकक्षेत्राणि' तद्यथाजम्बूद्वीपे रम्यकक्षेत्रमेकमेव, धातकोखण्डे रम्यकक्षेत्र द्वयमेव, पुष्करवरद्वीपाद्धेऽपि च रम्यकक्षेत्र द्वयमेव वर्तते /