________________ 258 सुशीलनाममालायां * स्वजिकाक्षारनामानि * . कापोत:' स्वजिकाक्षार:२, सृजिकाक्षार' इत्यपि / सुखवर्चक ३च लोके, साजो सज्जीति वा भवेत् // 1603 // * स्वजिकानामानि के स्वजिका' स्वजि. श्च स्रग्घ्नो, योगवाही सुचिका / लवणस्यैव भेदाः स्यु, गुण रूप विभागतः // 1604 // * भरतादिक्षेत्रनामानि * *भरता' न्यैरावतानि२, विदेहा श्च विना कुरून् / क्षेत्राणि कर्मभूम्यः' स्युः, पञ्चदशैव नामतः // 1605 // शेषाणि सर्ववर्षाणि, मन्यन्ते फलभूमयः' / तन्नामानि कथ्यन्ते, त्रिंश संख्यानि चात्र हि // 1606 // हैमवतानि पञ्च स्युः, हरिवर्षाणि पञ्च च / रम्यकायपि पञ्चैव, हैरण्यवतान्येव हि // 1607 // देवकुरववर्षारिण, पञ्च संख्यानि तानि वै / उत्तरकुरव श्चापि पञ्च,-संख्यकाः सन्ति नामतः // 1608 // * 'पञ्च भरतक्षेत्राणि' यथा'जम्बूद्वीपे भरतक्षेत्रमेकमेव, पातकीखण्डे भरतक्षेत्रं द्वयमेव पुष्कर- ... वरद्वीपाऽपि च भरतक्षेत्र द्वयमेव वसंते /