________________ 240 सुशोलनाममालायां क्षत्ता शूद्रात् प्रविज्ञेयो, जातो वै क्षत्रिय खियाम् / चण्डाल: कथ्यते शूद्राद्, जातो वै ब्राह्मण खियाम् // 1510 // मागधः१० क्षत्रियायां वै, वैश्याद् जातो हि मन्यते / पुनः वैदेहको' वैश्याद्, द्विजखियां हि कथ्यते // 1511 // सूत१२ स्तु क्षत्रियाज्जातः, द्विस्त्रियां हि मन्यते / इति च द्वादश भेदाः, कथ्यन्ते शूद्र कस्य वै // 1512 // माहिष्येण हि जातः स्यात्, करण्यां रथकारकः / * शिल्पिनामानि * शिल्पी' च प्रकृति:२ कारी, कारु' श्चेत्यपि कथ्यते // 1513 // शिल्पिनां समुदायो ऽपि, श्रेरिण' श्च मन्यते बुधः / * शिल्पनामानि * शिल्पं' कला व विज्ञानं, नाम शिल्पस्य कथ्यते // 1514 / / * मालाकारनामानि * मालाकारो' मालिकश्च 2, पुष्पाजीवो ऽपि मन्यते। * पुष्पलावीनाम * प्रोक्त नाम पुष्पलावी', पुष्पाणामवचायिनि // 1515 //