________________ 212 सुशीलनाममालायां * स्खलितनाम के छलं' च स्खलितं नाम, मार्गच्यतः स कथ्यते // 1336 // * परिभूतनामानि के अभिभूतः' पराभूतः२, परिभूतः पराजितः / जितो भग्नश्च नामानि, पराभवस्य मन्यताम् // 1340 // * पलायितनामानि * पलायितो गृहीतदिक् 2, नष्ट स्तथा तिरोहितः / पलायितस्य नामानि, विजानन्ति मनोषिणः // 1341 // _* जिताहवनाम * जितकाशी' जिताहवो', जयवान् कथ्यते युधि। * पतितनाम * प्रस्कन्न.' पतित श्चैव, पतितार्थे स मन्यते // 1342 // * चारकनामानि * चार' श्च चारको गुप्तिः, कारा कारागृहे भवेत् / ॐ बन्दिनामानि के प्रग्रहो' ग्रहको बन्दी', चोपग्रहो ऽपि कथ्यते // 1343 / /